|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.59. अध्यायः 059
Mahabharata - Shalya Parva - Chapter Topics
भीमसेनेन दुर्योधनस्योरुभेदनम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्चय उवाच। 9-59-0x(5231)(63480)
समुदीर्णं ततो दृष्ट्वा सङ्ग्रामं कुरुमुख्ययोः।
अब्रवीदर्जुनस्तत्र वासुदेवं यशस्विनम्॥ 9-59-1(63481)
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः।
कस्य वा को गुणो ज्यायानेतद्वद जनार्दन॥ 9-59-2(63482)
वासुदेव उवाच। 9-59-3x(5232)
उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः।
कृती यत्नपरस्त्वेष धार्तराष्ट्रो वृकोदरात्॥ 9-59-3(63483)
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति।
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम्॥ 9-59-4(63484)
मायया निर्जिता देवैरसुरा इति नः श्रुतम्।
विरोचनस्तु शक्रेण मायया निर्जितः स वै॥ 9-59-5(63485)
मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः।
तस्मान्मायामयं वीर आतिष्ठतु वृकोदरः॥ 9-59-6(63486)
प्रतिज्ञातं च भीमेन द्यूतकाले धनञ्जय।
ऊरू भेत्स्यामि ते सङ्ख्ये गदयेति सुयोधनम्॥ 9-59-7(63487)
सोऽयं प्रतिज्ञां तां चापि पारयत्वरिकर्शनः।
मायाविनं तु राजानं माययैव निकृन्ततु॥ 9-59-8(63488)
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति।
विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः॥ 9-59-9(63489)
पुनरेव तु वक्ष्यामि पाण्डवेय निबोध मे।
धर्मराजापराधेन भयं नः पुनरागतम्॥ 9-59-10(63490)
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून्।
जयः प्राप्तो यशः प्राग्र्यं वैरं च प्रतियातितम्।
तदेवं विजयः प्राप्तः पुनः संशयितः कृतः॥ 9-59-11(63491)
अबुद्धिरेषां महती धर्मराजस्य पाण्डव।
यदेकविजये वीर पणितं कृतमीदृशम्॥ 9-59-12(63492)
सुयोधनः कृती वीर एकायनगतस्तथा॥ 9-59-13(63493)
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः।
श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु॥ 9-59-14(63494)
पुनरावर्तमानानां भग्नानां जीवितैषिणाम्।
भेतव्यमरिशेषाणामेकायनगता हि ते॥ 9-59-15(63495)
[साहसोत्पतितानां च निराशानां च जीविते।
न शक्यमग्रतः स्थातुं शक्रेणापि धनञ्जय]॥ 9-59-16(63496)
सुयोधनमिमं भग्नं हतसैन्यं हदं गतम्।
पराजितं वनप्रेप्सुं निराशं राज्यलम्भने।
कोऽन्विष्य संयुगे प्राज्ञः पुनर्द्वन्द्वे समाह्वयेत्॥ 9-59-17(63497)
अपि नो निर्जितं राज्यं न हरेत सुयोधनः।
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः।
चरत्यूर्ध्वं च तिर्यक्व भीमसेनिघांसया॥ 9-59-18(63498)
एनं चेन्न महाबाहुरन्यायेन हनिष्यति।
एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति॥ 9-59-19(63499)
सञ्जय उवाच। 9-59-20x(5233)
धनञ्जयस्तु श्रुत्वैतत्केशवस्य महात्मनः।
प्रेक्षतो भीमसेनस्य सव्यमूरुमताडयत्॥ 9-59-20(63500)
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे।
मण्डलानि विचित्राणि यमकानीतराणि च॥ 9-59-21(63501)
दक्षिणं मण्डलं सव्यं गोमूत्रिकमथापि च।
व्यचरत्पाण्डवो राजन्नरिं सम्मोहयन्निव॥ 9-59-22(63502)
तथैव तव पुत्रोऽपि गदामार्गविशारदः।
व्यचरल्लघु चित्रं च भीमसेनजिघांसया॥ 9-59-23(63503)
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते।
वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ॥ 9-59-24(63504)
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ।
युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ॥ 9-59-25(63505)
मण्डलानि बिचित्राणि चरतोर्नृपभीमयोः।
गदासम्पातजास्तत्र प्रजज्ञुः पावकार्चिषः॥ 9-59-26(63506)
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे।
क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः॥ 9-59-27(63507)
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव।
गदानिर्घातसं हादः प्रहाराणामजायत॥ 9-59-28(63508)
तस्मिंस्तदा सम्प्रहारे दारुणे सङ्कुले भृशम्।
उभावपि परिश्रान्तौ युध्यमानावरिन्दमौ॥ 9-59-29(63509)
तौ मुहूर्ते समाश्वस्य पुनरेव परन्तप।
अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे॥ 9-59-30(63510)
तयोः समभवद्युद्धं घोररूपमसंवृतम्।
गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम्॥ 9-59-31(63511)
समरे प्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ।
अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव॥ 9-59-32(63512)
जर्झरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ।
ददृशाते हिमवति पुष्पिताविव किंशुकौ॥ 9-59-33(63513)
दुर्योधनस्तु पार्थेन विवरे सम्प्रदर्शिते।
ईषदुत्स्मयमानस्तु सहसा प्रससार ह॥ 9-59-34(63514)
तमभ्याशगतं प्राज्ञः क्षणे प्रेक्ष्य वृकोदरः।
अवाक्षिपद्गदां तस्मिन्वेगेन महता बती॥ 9-59-35(63515)
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशाम्पते।
अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि॥ 9-59-36(63516)
मोक्षयित्वा प्रहारं तं सुतस्तव सुसम्भ्रमात्।
भीमसेनं च गदया प्राहरत्कुरुसत्तम॥ 9-59-37(63517)
तस्य विस्यन्दमानेन रुधिरेणामितौजसः।
प्रहारगुरुपाताच मूर्छेव समजायत॥ 9-59-38(63518)
तन्नावुध्यत पुत्रस्ते पीडितं पाण्डवं रणे।
धारयामास भीमोऽपि शरीरमतिपीडितम्॥ 9-59-39(63519)
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे।
अतो न प्राहरत्तस्मै पुनरेव तवात्मजः॥ 9-59-40(63520)
ततो मुहूर्तनाश्वस्य दुर्योधनमुपस्थितम्।
देगेनाभ्ययतद्राजन्गदामादाय पाण्डवः॥ 9-59-41(63521)
तमापतन्तं सम्प्रेक्ष्य संरब्धगमितौजसम्।
मोधमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ॥ 9-59-42(63522)
अवस्याने मतिं कृत्वा पुत्रन्तव महामनाः।
इयेषोत्पतितुं राजञ्छलयिष्यन्वृकोदरम्॥ 9-59-43(63523)
अबुध्यद्भीमसेनस्तु राज्ञस्तस्य चिकीर्षितम्।
अचास्य सममिद्रुत्य समुत्पत्य च सिंहवत्॥ 9-59-44(63524)
सत्या वञ्चवतो राजन्पुनरेवोत्पतिष्यतः।
ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः॥ 9-59-45(63525)
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा।
ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ॥ 9-59-46(63526)
स पपात नरव्याघ्रो वसुधामनुनादयन्।
भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते॥ 9-59-47(63527)
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च।
चचाल पृथिवी चापि सवृक्षक्षुपपर्वता॥ 9-59-48(63528)
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम्।
महास्वना पुनर्दीप्ता सनिर्घाता भयङ्करी।
पपात चोल्का महती पतिते पृथिवीपतौ॥ 9-59-49(63529)
तथा शोणितवर्षं च पांसुवर्षं च भारत।
ववर्ष मघवांस्तत्र तव पुत्रे निपातिते॥ 9-59-50(63530)
यक्षाणां राक्षसानां च पिशाचानां तथैव च।
अन्तरिक्षे महान्नादस्तत्र भारत शुश्रुवे॥ 9-59-51(63531)
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम्।
जज्ञे घोरतरः शब्दो बहूनां सर्वतोदिशम्॥ 9-59-52(63532)
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह।
मुमुचुस्ते महानादं तव पुत्रे निपातिते॥ 9-59-53(63533)
बेरीशङ्खमृदङ्गानामभवच्च स्वनो महान्।
अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते॥ 9-59-54(63534)
[बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः।
नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप॥ 9-59-55(63535)
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च।
प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते]॥ 9-59-56(63536)
हदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम।
नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाऽभवन्॥ 9-59-57(63537)
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाऽभवन्।
दुर्योधने तदा राजन्पतिते तनये तव॥ 9-59-58(63538)
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह।
आविग्नमनसः सर्वे बभूवुर्भरतर्षभ॥ 9-59-59(63539)
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा।
कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत॥ 9-59-60(63540)
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः।
नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम्॥ ॥ 9-59-61(63541)
इति श्रीमन्महाभारते शल्यपर्वणि गदायुद्धपर्वणि एकोनषष्टितमोऽध्यायः॥ 59 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-59-15 अरिशेषाणो पञ्चम्यर्थे षष्ठी॥ 9-59-34 सहसैवाभिसारित इति क.छ.पाठः॥ 9-59-45 धृत्या वञ्चयत इति क.छ.पाठः॥ 9-59-48 क्षुपः क्षुद्रवृक्षः॥ 9-59-59 एकोनषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|